घरात रोख धान्य वाढवण्यासाठी इंद्र कृत महा लक्ष्मीष्टकम् - ( Mahalakshmi ashtakam ) - in Marathi - Stotras and Mantras
महा लक्ष्म्यष्टकम् इंद्र उवाच - नमस्तेऽस्तु महामाये श्रीपीठे सुरपूजिते । शंखचक्र गदाहस्ते महालक्ष्मि नमोऽस्तु ते ॥ 1 ॥ नमस्ते गरुडारूढे कोलासुर भयंकरि । सर्वपापहरे देवि महालक्ष्मि नमोऽस्तु ते ॥ 2 ॥ सर्वज्ञे सर्ववरदे सर्व दुष्ट भयंकरि । सर्वदुःख हरे देवि महालक्ष्मि नमोऽस्तु ते ॥ 3 ॥ सिद्धि बुद्धि प्रदे देवि भुक्ति मुक्ति प्रदायिनि । मंत्र मूर्ते सदा देवि महालक्ष्मि नमोऽस्तु ते ॥ 4 ॥ आद्यंत रहिते देवि आदिशक्ति महेश्वरि । योगज्ञे योग संभूते महालक्ष्मि नमोऽस्तु ते ॥ 5 ॥ स्थूल सूक्ष्म महारौद्रे महाशक्ति महोदरे । महा पाप हरे देवि महालक्ष्मि नमोऽस्तु ते ॥ 6 ॥ पद्मासन स्थिते देवि परब्रह्म स्वरूपिणि । परमेशि जगन्मातः महालक्ष्मि नमोऽस्तु ते ॥ 7 ॥ श्वेतांबरधरे देवि नानालंकार भूषिते । जगस्थिते जगन्मातः महालक्ष्मि नमोऽस्तु ते ॥ 8 ॥ महालक्ष्मष्टकं स्तोत्रं यः पठेद् भक्तिमान् नरः । सर्व सिद्धि मवाप्नोति राज्यं प्राप्नोति सर्वदा ॥ एककाले पठेन्नित्यं महापाप विनाशनं । द्विकालं यः पठेन्नित्यं धन धान्य समन्वितः ॥ त्रिकालं यः पठेन्नित्यं महाशत्रु विनाशनं । महालक्ष्मी र्भवेन्-नित्यं प्रसन्ना वरदा शुभा...